Translate

Thursday, 5 December 2019

विराट् पुरुष सूक्तम्

                              विराट् पुरुष सूक्तम्
 । देवता विश्वकर्म विराट्पुरुषः ॥
सहस्रशीर्षा पुरुषः । सहस्राक्षस्सहस्रपात् ।
स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् ॥ १
पुरुष एवेदग्ँ सर्वम् । धद्भुतं यच्च भव्यम् ।
उतामृतत्वस्येशानः । यदन्नेनातिरोहति ॥ २
एतावानस्य महिमा । अतो ज्यायाग्ँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि ॥ ३
त्रिपादूर्ध्व उदैत्पुरुषः । पादो ऽस्येहाभवात्पुनः ।
ततो विश्वङ्व्यक्रामत् । साशनानशने अभि ॥ ४
तस्माद्विराडजायत । विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः ॥ ५
यत्पुरुषेण हविषा । देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः ॥ ६
 सप्तास्यासन्परिधयः । त्रिस्सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् ॥ ७
तं यज्ञं बर्हिषि प्रौक्षन्न् । पुरुषं जातामग्रतः ।
तेन देवा अयजन्त । साध्या ऋषयश्च ये ॥ ८ तस्माद्ययज्ञासर्वहुतः । संभृतं पृषदाज्यम् ।
पशूग्ँस्ताग्ँश्चक्रे वायव्यान् । आरण्यान् ग्राम्याश्च ये ॥ ९
तस्माद्यज्ञासर्वहुतः । ऋचस्सामानि जज्ञिरे ।
छन्दाग्ँसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत ॥ १०
तस्मादश्वा अजातन्त । ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः ॥ ११ यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन्न् ।
मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते ॥ १२
ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः । पद्भयाग्ँ शूद्रो अजायत ॥ १३
चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत ॥ १४
नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौस्समवर्तत ।
पद्भ्यां भूमिर्दिशश्श्रोत्रात् । लोकाग्ँ अकल्पयन्न् ॥ १५                       
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्ण तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीरः ।
नामानि कृत्वाऽभिवदन्यदाऽऽस्ते ॥ १६
धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति ।
नान्यः पन्था अयनाय विद्यते ॥ १७
यज्ञेन यज्ञमयजन्त देवाः । तानि धर्मामि प्रथमान्यासन् ।
ते ह नाकं महिमानस्सचन्ते ।
यत्र पूर्वे साध्यास्सन्ति देवाः॥ १८
                                 परमात्मा सूक्तम्
अद्भयस्संभूतः पृथिव्यै रसाच्च ।
विश्वकर्मणस्समवर्तताधि ।
तस्य त्वष्टा विदधद् रूपमेति ।
तत्पुरुषस्य विश्वमाजानमग्रे ॥ १
वेदाहमेतं पुरुषं महान्तम् ।
आदित्यवर्ण तमसः परस्तात् ।
तमेवं विद्वानमृत इह भवति ।
 नान्यः पन्था विद्यतेऽयनाय ॥ २
प्रजापतिश्चरति गर्ने अन्तः ।
अजायमनो बहुधा विजायते ।
यस्य धीराः परिजामन्ति योनिम् ।
मरीचीनां पदमिच्छन्ति वेधसः ॥ ३
यो देवेभ्य आतपति । यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये ॥ ४
रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन्न् ।
यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन्वशे ॥ ५
ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे ।
नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् । इष्टं मनिषाण ।
अमुं मनिषाण । सर्व मनिषाण ॥ ६
तच्छंयो रावृणीमहे । गातुं यज्ञाय ।गातुं यज्ञपतये । दैवीः स्वस्तिरस्तु नः । स्वस्ति - र्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् । शंनो अस्तु द्विपदे ।
शं चतुष्पदे ।
ओं शान्तिः शान्तिः शान्तिः ॥